अमरकोशः


श्लोकः

त्रिष्वथो जगती लोको विष्टपं भुवनं जगत् । लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जगती जगती स्त्रीलिङ्गः गच्छति । अति उणादिः ईकारान्तः
2 लोक लोकः पुंलिङ्गः लोक्यते । घञ् कृत् अकारान्तः
3 विष्टप विष्टपम् नपुंसकलिङ्गः विशन्त्यत्र । कप् उणादिः अकारान्तः
4 भुवन भुवनम् नपुंसकलिङ्गः भवन्त्यस्मिन् । क्युन् उणादिः अकारान्तः
5 जगत् जगत् नपुंसकलिङ्गः अति उणादिः तकारान्तः
6 भारत भारतम् नपुंसकलिङ्गः भरतस्य राज्ञ इदम् । अण् तद्धितः अकारान्तः