अमरकोशः


श्लोकः

वर्षीयान्दशमी ज्यायान् पूर्वजस्त्वग्रियोऽग्रजः । जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः ॥ ४३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वर्षीयस् वर्षीयस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन वृद्धः । ईयसुन् तद्धितः सकारान्तः
2 दशमिन् दशमिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दशमोऽवस्थाविशेषोऽस्यास्ति । इनि तद्धितः नकारान्तः
3 ज्यायस् ज्यायस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन वृद्धः । ईयसुन् तद्धितः सकारान्तः
4 पूर्वज पूर्वजः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पूर्वस्मिन्काले जातः । कृत् अकारान्तः
5 अग्रिय अग्रियः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अग्रे जातः । तद्धितः अकारान्तः
6 अग्रज अग्रजः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अग्रे जातः । कृत् अकारान्तः
7 जघन्यज जघन्यजः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जघन्येऽवरकाले जातः । कृत् अकारान्तः
8 कनिष्ठ कनिष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन युवा । इष्ठन् तद्धितः अकारान्तः
9 यवीयस् यवीयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ईयसुन् तद्धितः सकारान्तः
10 अवरज अवरजः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवरस्मिन् काले जातः । कृत् अकारान्तः
11 अनुज अनुजः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अनु पश्चाज्जातः । कृत् अकारान्तः