अमरकोशः


श्लोकः

लोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः । हिरण्यरेता हुतभुग् दहनो हव्यवाहनः ॥ ५५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लोहिताश्व लोहिताश्वः पुंलिङ्गः लोहिता अश्वा यस्य । बहुव्रीहिः समासः अकारान्तः
2 वायुसख वायुसखः पुंलिङ्गः वायोः सखा । तत्पुरुषः समासः अकारान्तः
3 शिखावत् शिखावान् पुंलिङ्गः शिखाः सन्त्यस्य । मतुप् तद्धितः तकारान्तः
4 आशुशुक्षणि आशुशुक्षणिः पुंलिङ्गः आशोष्टुमिच्छति । सन् सनाद्यन्तः इकारान्तः
5 हिरण्यरेतस् हिरण्यरेताः पुंलिङ्गः हिरण्यं रेतोऽस्य । बहुव्रीहिः समासः सकारान्तः
6 हुतभुज् हुतभुग् पुंलिङ्गः हुतं भुङ्क्ते । तत्पुरुषः समासः जकारान्तः
7 दहन दहनः पुंलिङ्गः दहति । ल्यु कृत् अकारान्तः
8 हव्यवाहन हव्यवाहनः पुंलिङ्गः हव्यं वाहयति । तत्पुरुषः समासः अकारान्तः