अमरकोशः


श्लोकः

शाकाख्यं पत्रपुष्पादि तण्डुलीयोल्पमारिषः । विशल्याऽग्निशिखाऽनन्ता फलिनी शक्रपुष्प्यपि ॥ १३६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शाक शाकम् नपुंसकलिङ्गः शक्यते भोक्तुम् । घञ् कृत् अकारान्तः
2 तण्डुलीय तण्डुलीयः पुंलिङ्गः तण्डुलाय हितः । तद्धितः अकारान्तः
3 अल्पमारिष अल्पमारिषः पुंलिङ्गः अल्पश्चासौ मारिषश्च ॥ तत्पुरुषः समासः अकारान्तः
4 विशल्या विशल्या स्त्रीलिङ्गः विगतं शल्यमनया । बहुव्रीहिः समासः आकारान्तः
5 अग्निशिखा अग्निशिखा स्त्रीलिङ्गः अग्नेरिव शिखा संतापो यस्याः । बहुव्रीहिः समासः आकारान्तः
6 अनन्ता अनन्ता स्त्रीलिङ्गः न अन्तो यस्याः ॥ बहुव्रीहिः समासः आकारान्तः
7 फलिनी फलिनी स्त्रीलिङ्गः फलानि सन्त्यस्याः । इनि तद्धितः ईकारान्तः
8 शक्रपुष्पी शक्रपुष्पी स्त्रीलिङ्गः शक्रोऽर्जुनतरु: पुष्पमस्याः । बहुव्रीहिः समासः ईकारान्तः