अमरकोशः


श्लोकः

संहार: कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः । प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संहार संहारः पुंलिङ्गः हरणं हारः । घञ् कृत् अकारान्तः
2 कालसूत्र कालसूत्रम् नपुंसकलिङ्गः कालान्ययोमयानि सूत्राण्यत्र । समासः अकारान्तः
3 नारक नारकाः पुंलिङ्गः नरकस्थाः सत्त्वाः जन्तवः । अण् तद्धितः अकारान्तः
4 प्रेता प्रेताः पुंलिङ्गः क्तः कृत् आकारान्तः
5 वैतरणी वैतरणी स्त्रीलिङ्गः विगतस्तरणिर्यत्र तत्र भवा । अण् तद्धितः ईकारान्तः
6 अलक्ष्मी अलक्ष्मीः स्त्रीलिङ्गः लक्ष्मीविरुद्धा ॥ नञ् समासः समासः ईकारान्तः
6 निर्ऋति निर्ऋतिः स्त्रीलिङ्गः नियता ऋतिर्घृणा यस्याः बहुव्रीहिः समासः इकारान्तः