अमरकोशः


श्लोकः

पूपोऽपूपः पिष्टक: स्यात् करम्भो दधिसक्तवः । भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः ॥ ४८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पूप पूपः पुंलिङ्गः पवनम् । कृत् अकारान्तः
2 अपूप अपूपः पुंलिङ्गः न पूय्यते । तत्पुरुषः समासः अकारान्तः
3 पिष्टक पिष्टकः पुंलिङ्गः पिष्टस्य विकारः । कन् कृत् अकारान्तः
4 करम्भ करम्भः पुंलिङ्गः केन जलेन रम्यते मिश्रीक्रियते । घञ् कृत् अकारान्तः
5 दधिसक्तु दधिसक्तुः पुंलिङ्गः दध्युपसिक्ताः सक्तवः । तत्पुरुषः समासः उकारान्तः
6 भिस्सा भिस्सा स्त्रीलिङ्गः बभस्ति । बाहुलकात् आकारान्तः
7 भक्त भक्तम् नपुंसकलिङ्गः भज्यते स्म । क्त कृत् अकारान्तः
8 अन्धस् अन्धस्म् नपुंसकलिङ्गः अद्यते । असुन् उणादिः सकारान्तः
9 अन्न अन्नम् नपुंसकलिङ्गः क्त कृत् अकारान्तः
10 ओदन ओदनः पुंलिङ्गः, नपुंसकलिङ्गः उनत्ति । युच् उणादिः अकारान्तः
11 दीदिवि दीदिविः पुंलिङ्गः दीव्यत्यनेन । क्विन् उणादिः इकारान्तः