अमरकोशः


श्लोकः

स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः । स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नभस्य नभस्यः पुंलिङ्गः नभा अभ्रम् । तत्र साधुर्नभस्य: । यत् तद्धितः अकारान्तः
2 प्रौष्ठपद प्रौष्ठपदः पुंलिङ्गः प्रोष्ठपदाभिर्युक्ता प्रौष्ठपदी । अण् तद्धितः अकारान्तः
3 भाद्र भाद्रः पुंलिङ्गः भद्रा भद्रपदा । ताभिर्युक्ता भाद्री भाद्रपदी च पौर्णमासी । अण् तद्धितः अकारान्तः
4 भाद्रपद भाद्रपदः पुंलिङ्गः भद्रा भद्रपदा । ताभिर्युक्ता भाद्री भाद्रपदी च पौर्णमासी । अण् तद्धितः अकारान्तः
5 आश्विन आश्विनः पुंलिङ्गः अश्विन्या युक्ता पौर्णमास्यस्मिन्नस्ति । अण् तद्धितः अकारान्तः
6 इष इषः पुंलिङ्गः एषणम् अच् तद्धितः अकारान्तः
7 आश्वयुज आश्वयुजः पुंलिङ्गः अश्वयुजा युक्ता पौर्णमास्यस्मिन् । अण् तद्धितः अकारान्तः
8 कार्तिक कार्तिकः पुंलिङ्गः कृत्तिकाभिर्युक्ता पौर्णमास्यस्मिन् । अण् तद्धितः अकारान्तः