अमरकोशः


श्लोकः

आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् । केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका ॥ १०७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आवापक आवापकः पुंलिङ्गः आ उप्यते । घञ् कृत् अकारान्तः
2 पारिहार्य पारिहार्यः पुंलिङ्गः परिह्रियते ण्यत् कृत् अकारान्तः
3 कटक कटकः पुंलिङ्गः, नपुंसकलिङ्गः कटति कट्यते वा । क्वुन् उणादिः अकारान्तः
4 वलय वलयः पुंलिङ्गः, नपुंसकलिङ्गः वलते । कयन् उणादिः अकारान्तः
5 केयूर केयूरः पुंलिङ्गः, नपुंसकलिङ्गः कयिति । ऊरा उणादिः अकारान्तः
6 अङ्गद अङ्गदः पुंलिङ्गः, नपुंसकलिङ्गः अङ्गं दयते, दायति, द्यति वा । कृत् अकारान्तः
7 अङ्गुलीयक अङ्गुलीयकः पुंलिङ्गः, नपुंसकलिङ्गः अङ्गुलौ भवम् । तद्धितः अकारान्तः
8 ऊर्मिका ऊर्मिका स्त्रीलिङ्गः ऊर्मि प्रकाशं कायति वा कन् तद्धितः आकारान्तः