अमरकोशः


श्लोकः

अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः । सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अमर अमराः पुंलिङ्गः न म्रियन्ते । तत्पुरुषः समासः अकारान्तः
2 निर्जर निर्जराः पुंलिङ्गः जराया निष्क्रान्ताः । अव्ययीभावः समासः अकारान्तः
3 देव देवाः पुंलिङ्गः दीव्यन्तीति देवाः । अच् कृत् अकारान्तः
4 त्रिदश त्रिदशाः पुंलिङ्गः तृतीया यौवनाख्या दशा सदा येषाम् । बहुव्रीहिः समासः अकारान्तः
5 विबुध विबुधाः पुंलिङ्गः विशिष्टे बुधो येषाम् । बहुव्रीहिः समासः अकारान्तः
6 सुर सुराः पुंलिङ्गः सुरन्तीति सुराः । कृत् अकारान्तः
7 सुपर्वन् सुपर्वाणः पुंलिङ्गः सुष्ठ पर्व अमावास्यादिचरितम्, अङ्गुल्यादिग्रन्थिः, उत्सवो वा येषां सुपर्वाणः । बहुव्रीहिः समासः नकारान्तः
8 सुमनस् सुमनसः पुंलिङ्गः शोभनं मनो येषां ते सुमनसः । बहुव्रीहिः समासः सकारान्तः
9 त्रिदिवेश त्रिदिवेशाः पुंलिङ्गः त्रिदिवस्येशाः । तत्पुरुषः समासः अकारान्तः
10 दिवौकस् दिवौकसः पुंलिङ्गः दिवमोको येषां ते दिवौकसः । बहुव्रीहिः समासः सकारान्तः