अमरकोशः


श्लोकः

अप्राग्र्यं द्वयहीने द्वे अप्रधानोपसर्जने । विशङ्कटं पृथु बृहद्विशालं पृथुलं महत् ॥ ६० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अप्राग्र्य अप्राग्र्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्राग्र्याद्भिन्नम् तत्पुरुषः समासः अकारान्तः
2 अप्रधान अप्रधानम् नपुंसकलिङ्गः प्रधानादन्यत् तत्पुरुषः समासः अकारान्तः
3 उपसर्जन उपसर्जनम् नपुंसकलिङ्गः उपसृज्यते ल्युट् कृत् अकारान्तः
4 विशङ्कट विशङ्कटः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शङ्कटच् तद्धितः अकारान्तः
5 पृथु पृथुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रथते कुः उणादिः उकारान्तः
6 बृहत् बृहत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बर्हति अति उणादिः तकारान्तः
7 विशाल विशालः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शालच् उणादिः अकारान्तः
8 पृथुल पृथुलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रथते लच् उणादिः अकारान्तः
9 महत् महत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः महति अति उणादिः तकारान्तः