अमरकोशः


श्लोकः

स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा । मातुलानी तु भङ्गायां व्रीहिभेदस्त्वणुः पुमान् ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कङ्गु कङ्गुः स्त्रीलिङ्गः कमङ्गति । कु उणादिः उकारान्तः
2 प्रियङ्गु प्रियङ्गुः स्त्रीलिङ्गः प्रियं गच्छति ॥ डु कृत् उकारान्तः
3 अतसी अतसी स्त्रीलिङ्गः अतति । असच् उणादिः ईकारान्तः
4 उमा उमा स्त्रीलिङ्गः उं शिवं माति, मिमीते, वा । कृत् आकारान्तः
5 क्षुमा क्षुमा स्त्रीलिङ्गः क्षौति, क्षूयते वा । मक् बाहुलकात् आकारान्तः
6 मातुलानी मातुलानी स्त्रीलिङ्गः मायास्तुला । अण् कृत् ईकारान्तः
7 भङ्गा भङ्गा स्त्रीलिङ्गः भज्यते । घञ् कृत् आकारान्तः
8 व्रीहिभेद व्रीहिभेदः पुंलिङ्गः अकारान्तः
9 अणु अणुः पुंलिङ्गः अणति । उणादिः उकारान्तः