अमरकोशः


श्लोकः

व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् । त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः ॥ सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये ॥ ५७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 व्यवाय व्यवायः पुंलिङ्गः व्यवायनम् । अच् कृत् अकारान्तः
2 ग्राम्यधर्म ग्राम्यधर्मः पुंलिङ्गः ग्राम्याणां जनानां धर्मः ॥ तत्पुरुषः समासः अकारान्तः
3 मैथुन मैथुनम् नपुंसकलिङ्गः मिथुनस्य कर्म । अण् तद्धितः अकारान्तः
4 निधुवन निधुवनम् नपुंसकलिङ्गः नितरां धुवनं हस्तपादादिचालनमत्र ॥ बहुव्रीहिः समासः अकारान्तः
5 रत रतम् नपुंसकलिङ्गः रमणम् । क्त कृत् अकारान्तः
6 त्रिवर्ग त्रिवर्गः पुंलिङ्गः त्रयाणां वर्गः समूहः ॥ द्विगुः समासः अकारान्तः
7 चतुर्वर्ग चतुर्वर्गः पुंलिङ्गः चतुर्णां वर्गः ॥ द्विगुः समासः अकारान्तः