अमरकोशः


श्लोकः

काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतनम् । रक्तसंकोचपिशुनं धीरलोहितचन्दनम् ॥ १२४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काश्मीरजन्मन् काश्मीरजन्मन्म् नपुंसकलिङ्गः कशति, कश्यते वा । ईरन् उणादिः नकारान्तः
2 अग्निशिख अग्निशिखम् नपुंसकलिङ्गः अग्निरिव शिखा केसरोऽस्य । बहुव्रीहिः समासः अकारान्तः
3 वर वरम् नपुंसकलिङ्गः व्रियते । अप् कृत् अकारान्तः
4 बाल्हीक बाल्हीकम् नपुंसकलिङ्गः वह्लते । अण् तद्धितः अकारान्तः
5 पीतन पीतनम् नपुंसकलिङ्गः पीतं करोति । ल्यु कृत् अकारान्तः
6 रक्त रक्तम् नपुंसकलिङ्गः रज्यते स्म । क्त कृत् अकारान्तः
7 संकोच संकोचम् नपुंसकलिङ्गः संकोचति, संकुच्यते, वा । अच् कृत् अकारान्तः
8 पिशुन पिशुनम् नपुंसकलिङ्गः पिंशति । उनन् उणादिः अकारान्तः
9 धीर धीरम् नपुंसकलिङ्गः दधाति । क्रन् उणादिः अकारान्तः
10 लोहितचन्दन लोहितचन्दनम् नपुंसकलिङ्गः लोहितं च तच्चन्दनं च । तत्पुरुषः समासः अकारान्तः