अमरकोशः


श्लोकः

वीरपत्नी वीरभार्या वीरमाता तु वीरसूः । जातापत्या प्रजाता च प्रसूता च प्रसूतिका ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वीरपत्नी वीरपत्नी स्त्रीलिङ्गः वीरः पतिरस्याः बहुव्रीहिः समासः ईकारान्तः
2 वीरभार्या वीरभार्या स्त्रीलिङ्गः वीरस्य भार्या ॥ तत्पुरुषः समासः आकारान्तः
3 वीरमातृ वीरमातृः स्त्रीलिङ्गः वीरस्य माता ॥ तत्पुरुषः समासः ऋकारान्तः
4 वीरसू वीरसू स्त्रीलिङ्गः वीरं सूते । क्विप् कृत् ऊकारान्तः
5 जातापत्या जातापत्या स्त्रीलिङ्गः जातमपत्यमस्याः ॥ बहुव्रीहिः समासः आकारान्तः
6 प्रजाता प्रजाता स्त्रीलिङ्गः प्रजायते स्म । क्त कृत् आकारान्तः
7 प्रसूता प्रसूता स्त्रीलिङ्गः प्रासविष्ट । क्त कृत् आकारान्तः
8 प्रसूतिका प्रसूतिका स्त्रीलिङ्गः प्रासविष्ट । कन् तद्धितः आकारान्तः