अमरकोशः


श्लोकः

अंङ्गारवल्ली बालेयशाकवर्वरवर्धकाः । मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका ॥ ९० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अङ्गारवल्ली अङ्गारवल्ली स्त्रीलिङ्गः अङ्गारवद्वल्ल्यस्याः । बहुव्रीहिः समासः ईकारान्तः
2 बालेयशाक बालेयशाकः पुंलिङ्गः बालेयस्य शाकः । तत्पुरुषः समासः अकारान्तः
3 वर्वर वर्वरः पुंलिङ्गः वर्वर्ति । अच् कृत् अकारान्तः
4 वर्धक वर्धकः पुंलिङ्गः वर्धते । ण्वुल् कृत् अकारान्तः
5 मञ्जिष्ठा मञ्जिष्ठा स्त्रीलिङ्गः मञ्जौ शोभने वर्णे तिष्ठति । तत्पुरुषः समासः आकारान्तः
6 विकसा विकसा स्त्रीलिङ्गः विकसति । अच् कृत् आकारान्तः
7 जिङ्गी जिङ्गी स्त्रीलिङ्गः जिङ्गति । अच् कृत् ईकारान्तः
8 समङ्गा समङ्गा स्त्रीलिङ्गः समन्ततोऽङ्गति । अच् कृत् आकारान्तः
9 कालमेशिका कालमेशिका स्त्रीलिङ्गः काले मिश्यते । तत्पुरुषः समासः आकारान्तः