अमरकोशः


श्लोकः

गोलोमी शतवीर्या च गण्डाली शकुलाक्षका । कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ॥ १५९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गोलोमी गोलोमी स्त्रीलिङ्गः सिता शुक्ला । गोलोमसु जाता । अण् तद्धितः ईकारान्तः
2 शतवीर्या शतवीर्या स्त्रीलिङ्गः शतं वीर्याण्यस्याः ॥ बहुव्रीहिः समासः आकारान्तः
3 गण्डाली गण्डाली स्त्रीलिङ्गः गण्डति । आलच् बाहुलकात् ईकारान्तः
4 शकुलाक्षक शकुलाक्षकः पुंलिङ्गः शकुलस्य मत्स्यस्येवाक्षि यस्य । बहुव्रीहिः समासः अकारान्तः
5 कुरुविन्द कुरुविन्दः पुंलिङ्गः कुरून् विन्दति । कृत् अकारान्तः
6 मेघनामन् मेघनाम पुंलिङ्गः मेघनामानि नामान्यस्य ॥ बहुव्रीहिः समासः नकारान्तः
7 मुस्ता मुस्ता स्त्रीलिङ्गः मुस्तयति । अच् कृत् आकारान्तः
8 मुस्तक मुस्तकः पुंलिङ्गः, नपुंसकलिङ्गः ण्वुल् कृत् अकारान्तः