अमरकोशः


श्लोकः

सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे । रौमकं वसुकं पाक्यं विडं च कृतके द्वयम् ॥ ४२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सैन्धव सैन्धवः पुंलिङ्गः, नपुंसकलिङ्गः सिन्धुषु भवः । अण् तद्धितः अकारान्तः
2 शीतशिव शीतशिवम् नपुंसकलिङ्गः शीतं च तच्छिवं च । तत्पुरुषः समासः अकारान्तः
3 माणिमन्थ माणिमन्थम् नपुंसकलिङ्गः मणिबन्धाख्यपर्वते भवम् । अण् तद्धितः अकारान्तः
4 सिन्धुज सिन्धुजम् नपुंसकलिङ्गः सिन्धुषु जातम् । कृत् अकारान्तः
5 रौमक रौमकम् नपुंसकलिङ्गः रुमायां भवम् । अण् कृत् अकारान्तः
6 वसुक वसुकम् नपुंसकलिङ्गः वसु कायति । कृत् अकारान्तः
7 पाक्य पाक्यम् नपुंसकलिङ्गः पच्यते । ण्यत् कृत् अकारान्तः
9 विड विडम् नपुंसकलिङ्गः विडति । कृत् अकारान्तः