अमरकोशः


श्लोकः

इक्षुगन्धा पोटगलः पुंसि भूम्नि तु वल्वजाः । रसाल इक्षुः तद्भेदाः पुण्ड्रकान्तारकादय: ॥ १६३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 इक्षुगन्धा इक्षुगन्धा स्त्रीलिङ्गः इक्षुवद्गन्धोऽस्याः । बहुव्रीहिः समासः आकारान्तः
2 पोटगल पोटगलः पुंलिङ्गः अच् कृत् अकारान्तः
3 वल्वज वल्वजः पुंलिङ्गः वल् चासौ वजश्च । तत्पुरुषः समासः अकारान्तः
4 रसाल रसालः पुंलिङ्गः रसेनालति, अल्यते, वा अच् कृत् अकारान्तः
5 इक्षु इक्षुः पुंलिङ्गः इष्यते । क्सु उणादिः उकारान्तः
6 पुण्ड्र पुण्ड्रः पुंलिङ्गः पुण्ड्यन्ते । रक् उणादिः अकारान्तः
7 कान्तारक कान्तारकः पुंलिङ्गः कान्तं रसमृच्छति । अण् कृत् अकारान्तः