अमरकोशः


श्लोकः

अभिहारोऽभिग्रहणं निर्हारोऽभ्यवकर्षणम् । अनुहारोऽनुकारः स्यादर्थस्यापगमे व्ययः ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अभिहार अभिहारः पुंलिङ्गः अभिहरणम् घञ् कृत् अकारान्तः
2 अभिग्रहण अभिग्रहणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 निर्हार निर्हारः पुंलिङ्गः निर्हरणम् घञ् कृत् अकारान्तः
4 अभ्यवकर्षण अभ्यवकर्षणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 अनुहार अनुहारः पुंलिङ्गः अनुहरणम् घञ् कृत् अकारान्तः
6 अनुकार अनुकारः पुंलिङ्गः अनुकरणम् घञ् कृत् अकारान्तः
7 व्यय व्ययः पुंलिङ्गः व्ययनम् घञ् कृत् अकारान्तः