अमरकोशः


श्लोकः

विक्लवो विह्वल: स्यात्तु विवशोऽरिष्टदुष्टधीः । कश्यः कशार्हे संनद्धे त्वाततायी वधोद्यते ॥ ४४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विक्लव विक्लवः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विक्लवते अच् कृत् अकारान्तः
2 विह्वल विह्वलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विह्वलति अच् कृत् अकारान्तः
3 विवश विवशः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विरुद्धं वष्टि अच् कृत् अकारान्तः
4 अरिष्टदुष्टधी अरिष्टदुष्टधी पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अरिष्टेन दुष्टा तत्पुरुषः कृत् ईकारान्तः
5 कश्य कश्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कशामर्हति तद्धितः अकारान्तः
6 कशार्ह कशार्हः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कशामर्हति अच् कृत् अकारान्तः
7 आततायिन् आततायिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संनह्यति स्म णिनि कृत् नकारान्तः