अमरकोशः


श्लोकः

कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम् । स्तनितं गर्जितं मेघनिर्घोषो रसितादि च ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कादम्बिनी कादम्बिनी स्त्रीलिङ्गः कादम्बाः कलहंसा बलाकावन्मेघमनुधावन्ति । इनि तद्धितः ईकारान्तः
2 मेघमाला मेघमाला स्त्रीलिङ्गः मेघानां माला । तत्पुरुषः समासः आकारान्तः
3 अभ्रिय अभ्रिय पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अभ्रे भवम् । तद्धितः अकारान्तः
4 स्तनित स्तनितम् नपुंसकलिङ्गः स्तन्यते । क्त कृत् अकारान्तः
5 गर्जित गर्जितम् नपुंसकलिङ्गः गर्ज्यते । क्त कृत् अकारान्तः
6 मेघनिर्घोष मेघनिर्घोषः पुंलिङ्गः मेघस्य निर्घोषः। तत्पुरुषः समासः अकारान्तः
7 रसित रसितम् नपुंसकलिङ्गः क्त कृत् अकारान्तः