अमरकोशः


श्लोकः

सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति । शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सत्य सत्यम् नपुंसकलिङ्गः सति साधु सत्यम् । यत् तद्धित अकारान्तः
2 तथ्य तथ्यम् नपुंसकलिङ्गः तथा सत्ये साधु तथ्यम् ॥ यत् तद्धित अकारान्तः
3 ऋत ऋतम् नपुंसकलिङ्गः अर्यते स्म । क्तः कृत् अकारान्तः
4 सम्यक् सम्यक् नपुंसकलिङ्गः समञ्जति संगच्छते । क्विन् ककारान्तः
5 शब्द शब्दः पुंलिङ्गः शब्दनम् । एरच् कृत् अकारान्तः
6 निनाद निनादः पुंलिङ्गः अप् कृत् अकारान्तः
7 निनद निनदः पुंलिङ्गः अप् कृत् अकारान्तः
8 ध्वनि ध्वनिः पुंलिङ्गः इः उणादिः इकारान्तः
9 ध्वान ध्वानः पुंलिङ्गः घञ् कृत् अकारान्तः
10 रव रवः पुंलिङ्गः रवणम् । अप् कृत् अकारान्तः
11 स्वन स्वनः पुंलिङ्गः अप् कृत् अकारान्तः