अमरकोशः


श्लोकः

कदली कन्दली चीनश्चमूरुप्रियकावपि । समूरुश्चेति हरिणा अमी अजिनयोनय: ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कदलिन् कदली स्त्रीलिङ्गः के दलति । अच् तद्धितः नकारान्तः
2 कन्दलिन् कन्दली स्त्रीलिङ्गः कन्दे सस्यमूले लीयते । कृत् नकारान्तः
3 चीन चीनः पुंलिङ्गः चिनोति । नक् बाहुलकात् अकारान्तः
4 चमूरु चमूरुः पुंलिङ्गः चमति । ऊर उणादिः उकारान्तः
5 प्रियक प्रियकः पुंलिङ्गः प्रीणाति । कृत् अकारान्तः
6 समूरु समूरुः पुंलिङ्गः शोभनावूरू यस्य ॥ बहुव्रीहिः समासः उकारान्तः