अमरकोशः


श्लोकः

धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम् । चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मेधा मेधा स्त्रीलिङ्गः मेधते संगच्छते सर्वमस्याम् । अः कृत् आकारान्तः
2 संकल्प संकल्पः पुंलिङ्गः इदमिदं कुर्यामिति मनसः कर्म व्यापारः । घञ् कृत् अकारान्तः
3 चित्ताभोग चित्ताभोगः पुंलिङ्गः चित्तस्य मनस आभोगस्तदेकप्रवणता पूर्णता वा । तत्पुरषः समासः अकारान्तः
4 मनस्कार मनस्कारः पुंलिङ्गः मनसः कारो व्यापारविशेषः । तत्पुरषः समासः अकारान्तः
5 चर्चा चर्चा स्त्रीलिङ्गः अङ् कृत् आकारान्तः
6 संख्या संख्या स्त्रीलिङ्गः संख्यानम् । अङ् कृत् आकारान्तः
7 विचारणा विचारणा स्त्रीलिङ्गः युच् कृत् आकारान्तः