अमरकोशः


श्लोकः

मङ्गल्यको मसूरोऽथ मकुष्ठकमयुष्टकौ । वनमुद्रे सर्षपे तु द्वौ तन्तुभकदम्बकौ ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मङ्गल्यक मङ्गल्यकः पुंलिङ्गः मङ्गले साधुः । यत् तद्धितः अकारान्तः
2 मसूर मसूरः पुंलिङ्गः मस्यति, मस्यते वा । उरन् उणादिः अकारान्तः
3 मकुष्ठक मकुष्ठकः पुंलिङ्गः मङ्कति, मङ्क्यते वा । तत्पुरुषः समासः अकारान्तः
4 मयुष्ठक मयुष्ठकः पुंलिङ्गः मयश्चासौ स्थकश्च । तत्पुरुषः समासः अकारान्तः
5 वनमुद्ग वनमुद्गः पुंलिङ्गः वनस्य मुद्गः ॥ तत्पुरुषः समासः अकारान्तः
6 सर्षप सर्षपः पुंलिङ्गः सरति स्नेहोऽस्मात् । अप उणादिः अकारान्तः
7 तन्तुभ तन्तुभः पुंलिङ्गः तन्तुना भाति । कृत् अकारान्तः
8 कदम्बक कदम्बकः पुंलिङ्गः कन्दति, कन्दयति वा । अम्बच् उणादिः अकारान्तः