अमरकोशः


श्लोकः

मार्दङ्गिका मौरजिकाः पाणिवादास्तु पाणिघाः । वेणुध्माः स्युर्वैणविका: वीणावादास्तु वैणिकाः ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मार्दङ्गिक मार्दङ्गिकाः पुंलिङ्गः मृदङ्गो लक्षणया तद्वादनं शिल्पमेषाम् । ठक् तद्धितः अकारान्तः
2 मौरजिक मौरजिकाः पुंलिङ्गः मुरजः शिल्पमेषाम् । ठक् तद्धितः अकारान्तः
3 पाणिवाद पाणिवादाः पुंलिङ्गः पाणिं वादयन्ति । अण् कृत् अकारान्तः
4 पाणिघ पाणिघाः पुंलिङ्गः पाणिं घ्नान्ति । टक् कृत् अकारान्तः
5 वेणुध्म वेणुध्माः पुंलिङ्गः वेणुं धमन्ति । कृत् अकारान्तः
6 वैणविक वैणविकाः पुंलिङ्गः वेणोर्विकारः । अञ् तद्धितः अकारान्तः
7 वीणावाद वीणावादाः पुंलिङ्गः वीणां वादयन्ति ॥ तत्पुरुषः समासः अकारान्तः
8 वैणिक वैणिकाः पुंलिङ्गः वीणा शिल्पमेषाम् ॥ ठक् तद्धितः अकारान्तः