अमरकोशः


श्लोकः

भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् । प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥ ३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 यातृ याता स्त्रीलिङ्गः यतते । ऋन् उणादिः ऋकारान्तः
2 प्रजावती प्रजावती स्त्रीलिङ्गः प्रजास्त्यस्याः । मतुप् तद्धितः ईकारान्तः
3 भ्रातृजाया भ्रातृजाया स्त्रीलिङ्गः भ्रातुर्जाया ॥ तत्पुरुषः समासः आकारान्तः
4 मातुलानी मातुलानी स्त्रीलिङ्गः मातुलस्य स्त्री । ङीष् स्त्रीप्रत्ययः ईकारान्तः
5 मातुली मातुली स्त्रीलिङ्गः मातुलस्य स्त्री । ङीष् स्त्रीप्रत्ययः ईकारान्तः