अमरकोशः


श्लोकः

तूल च नीपप्रियककदम्बास्तु हलिप्रिये । वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु ॥ ४२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तूल तूलम् नपुंसकलिङ्गः तूलयति तुल्यते, वा । कृत् अकारान्तः
2 नीप नीपः पुंलिङ्गः नयति, नीयते, वा । उणादिः अकारान्तः
3 प्रियक प्रियकः पुंलिङ्गः प्रीणाति । क्वुन् उणादिः अकारान्तः
4 कदम्ब कदम्बः पुंलिङ्गः कदति । अम्बच् उणादिः अकारान्तः
5 हलिप्रिय हलिप्रियः पुंलिङ्गः हलिनः प्रियः । तत्पुरुषः समासः अकारान्तः
6 वीरवृक्ष वीरवृक्षः पुंलिङ्गः वीर इव वृक्षो दु:स्पर्शत्वात् । तत्पुरुषः समासः अकारान्तः
7 अरुष्कर अरुष्करः पुंलिङ्गः अरुर्व्रणं करोति । तत्पुरुषः समासः अकारान्तः
8 अग्निमुखी अग्निमुखी स्त्रीलिङ्गः अग्निरिव मुखमस्याः तत्पुरुषः समासः ईकारान्तः
9 भल्लातकी भल्लातकी पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भल्ल इवातति । तत्पुरुषः समासः ईकारान्तः