अमरकोशः


श्लोकः

निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा । विभावरीतमस्विन्यौ रजनी यामिनी तमी ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निशा निशा स्त्रीलिङ्गः नितरां श्यति तनूकरोति व्यापारान् । तत्पुरुषः समासः आकारान्तः
2 निशीथिनी निशीथिनी स्त्रीलिङ्गः निशीथोऽस्त्यस्याम् । इनि तद्धितः ईकारान्तः
3 रात्रि रात्रिः स्त्रीलिङ्गः राति सुखम् । त्रिप् उणादिः इकारान्तः
4 त्रियामा त्रियामा स्त्रीलिङ्गः त्रयो यामा यस्याः । बहुव्रीहिः समासः आकारान्तः
5 क्षणदा क्षणदा स्त्रीलिङ्गः क्षणम् उत्सवं निर्व्यापारस्थितिं वा ददाति । कृत् आकारान्तः
6 क्षपा क्षपा स्त्रीलिङ्गः अच् कृत् आकारान्तः
7 विभावरी विभावरी स्त्रीलिङ्गः विभाति नक्षत्रादिभिः । क्वनिप् कृत् ईकारान्तः
8 तमस्विनी तमस्विनी स्त्रीलिङ्गः तमोऽस्त्यस्याम् । विनि तद्धितः ईकारान्तः
9 रजनी रजनी स्त्रीलिङ्गः रजन्त्यनुरक्ता भवन्ति रागिणोऽस्याम् । इनि उणादिः ईकारान्तः
10 यामिनी यामिनी स्त्रीलिङ्गः भीतिहेतुत्वान्निन्दिता यामा यस्याः । इनि तद्धितः ईकारान्तः
11 तमी तमी स्त्रीलिङ्गः ताम्यन्त्यस्याम् । इन् उणादिः ईकारान्तः