अमरकोशः


श्लोकः

व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः । कौलेयकः सारमेयः कुक्कुरो मृगदंशक: ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 व्याध व्याधः पुंलिङ्गः व्येति । विध्यति । कृत् अकारान्तः
2 मृगवधाजीव मृगवधाजीवः पुंलिङ्गः मृगवधेनाजीवति । कृत् अकारान्तः
3 मृगयु मृगयुः पुंलिङ्गः मृगान् वधार्थे याति । कु उणादिः उकारान्तः
4 लुब्धक लुब्धकः पुंलिङ्गः लुभ्यते स्म । क्त कृत् अकारान्तः
5 कौलेयक कौलेयकः पुंलिङ्गः कुले भवः । ढकञ् तद्धितः अकारान्तः
5 सारमेय सारमेयः पुंलिङ्गः सरमाया अपत्यम् । ढक् तद्धितः अकारान्तः
7 कुक्कुर कुक्कुरः पुंलिङ्गः कुक् चासौ कुरश्च । तत्पुरुषः समासः अकारान्तः
8 मृगदंशक मृगदंशकः पुंलिङ्गः मृगान् दशति । अण् कृत् अकारान्तः