अमरकोशः


श्लोकः

पणोऽक्षेषु ग्लहोऽक्षास्तु दैवनाः पाशकाश्च ते । परिणायस्तु शारीणां समन्तान्नयनेऽस्त्रियाम् ॥ ४५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पण पणः पुंलिङ्गः पण्यते उत्सृज्यते । अप् कृत् अकारान्तः
2 ग्लह ग्लहः पुंलिङ्गः ग्लह्यते अनेन । कृत् अकारान्तः
3 अक्ष अक्षः पुंलिङ्गः अक्षति । अच् कृत् अकारान्तः
4 देवन देवनः पुंलिङ्गः दीव्यन्ति येन । ल्युट् कृत् अकारान्तः
5 पाशक पाशकः पुंलिङ्गः पाशयति । ण्वुल् कृत् अकारान्तः
6 परिणाय परिणायः पुंलिङ्गः परितो वामदक्षिणतो नयनम् । घञ् कृत् अकारान्तः