अमरकोशः


श्लोकः

त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः । समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम् ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आहेय आहेयम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अहौ भवम् । ढञ् तद्धितः अकारान्तः
2 स्फटा स्फटा पुंलिङ्गः, स्त्रीलिङ्गः स्फटायामिति । अच् कृत् आकारान्तः
3 फणा फणा पुंलिङ्गः, स्त्रीलिङ्गः फणति । अच् कृत् आकारान्तः
4 कञ्चुक कञ्चुकः पुंलिङ्गः कञ्चते । उकन् बाहुलकाद् अकारान्तः
5 निर्मोक निर्मोकः पुंलिङ्गः निश्चयेन मुच्यते । घञ् कृत् अकारान्तः
6 क्ष्वेड क्ष्वेडः पुंलिङ्गः क्ष्वेडते मोहयति । अच् कृत् अकारान्तः
7 गरल गरलम् पुंलिङ्गः गिरति जीवम् । अच् कृत् अकारान्तः
8 विष् विषम् पुंलिङ्गः वेवेष्टि कायम् । कः कृत् षकारान्तः