अमरकोशः


श्लोकः

कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः । प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे ॥ ८७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कलम्ब कलम्बः पुंलिङ्गः कल्यते । अम्बच् उणादिः अकारान्तः
2 मार्गण मार्गणः पुंलिङ्गः मार्गयति । ल्यु कृत् अकारान्तः
3 शर शरः पुंलिङ्गः शृणाति । अप् कृत् अकारान्तः
4 पत्रिन् पत्रिन् पुंलिङ्गः पत्राणि पक्षाः सन्त्यस्य । इनि तद्धितः नकारान्तः
5 रोप रोपः पुंलिङ्गः रोप्यते अनेन वा । घञ् कृत् अकारान्तः
6 इषु इषुः पुंलिङ्गः, स्त्रीलिङ्गः ईष्यतेऽनेन । उणादिः उकारान्तः
7 प्रक्ष्वेडन प्रक्ष्वेडनः पुंलिङ्गः प्रकर्षेण क्ष्वेदन्ते । ल्यु कृत् अकारान्तः
8 नाराच नाराचः पुंलिङ्गः नरानाचामन्ति । अण् तद्धितः अकारान्तः
9 पक्ष पक्षः पुंलिङ्गः पक्षति । अच् कृत् अकारान्तः
10 वाज वाजः पुंलिङ्गः वजत्यनेन । घञ् कृत् अकारान्तः