अमरकोशः


श्लोकः

पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ । चुचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् ॥ ७७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पिचण्ड पिचण्डः पुंलिङ्गः अपि चमत्यन्नम् । उणादिः अकारान्तः
2 कुक्षि कुक्षिः पुंलिङ्गः कुष्यते निष्कास्यते मलोस्मात् । क्सि उणादिः इकारान्तः
3 जठर जठरः पुंलिङ्गः, नपुंसकलिङ्गः जायतेऽत्र जन्तुर्मलो वा । अर उणादिः अकारान्तः
4 उदर उदरम् नपुंसकलिङ्गः उदृणाति अच् उणादिः अकारान्तः
5 तुन्द तुन्दम् नपुंसकलिङ्गः तुदति । कृत् अकारान्तः
6 स्तन स्तनौ पुंलिङ्गः स्तनति कथयति यौवनोदयम् । अच् कृत् अकारान्तः
7 कुच कुचौ पुंलिङ्गः कुचति । कृत् अकारान्तः
8 चूचुक चूचुकः पुंलिङ्गः, नपुंसकलिङ्गः च्विति । उक बाहुलकात् अकारान्तः
9 कुचाग्र कुचाग्रम् नपुंसकलिङ्गः कुचस्याग्रम् ॥ तत्पुरुषः समासः अकारान्तः
10 क्रोड क्रोडः स्त्रीलिङ्गः, नपुंसकलिङ्गः क्रुध्यते । घञ् कृत् अकारान्तः
11 भुजान्तर भुजान्तरम् नपुंसकलिङ्गः भुजयोरन्तरम् ॥ तत्पुरुषः समासः अकारान्तः