अमरकोशः


श्लोकः

घटः कुटनिपावस्त्री शरावो वर्धमानक: । ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम् ॥ ३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 घट घटः पुंलिङ्गः, स्त्रीलिङ्गः घटति । अच् कृत् अकारान्तः
2 कुट कुटः पुंलिङ्गः, नपुंसकलिङ्गः कुटति कृत् अकारान्तः
3 निप निपः पुंलिङ्गः, नपुंसकलिङ्गः नियतं पिबन्त्यनेन । कृत् अकारान्तः
4 शराव शरावः पुंलिङ्गः, नपुंसकलिङ्गः शरणम् । अण् कृत् अकारान्तः
5 वर्धमानक वर्धमानकः पुंलिङ्गः, नपुंसकलिङ्गः वर्धते । शानच् कृत् अकारान्तः
6 ऋजीष ऋजीषम् नपुंसकलिङ्गः अर्जति । इषन् उणादिः अकारान्तः
7 पिष्टपचन पिष्टपचनम् नपुंसकलिङ्गः पिष्टस्य पचनम् ॥ तत्पुरुषः समासः अकारान्तः
8 कंस कंसः पुंलिङ्गः, नपुंसकलिङ्गः कम्यते । उणादिः अकारान्तः
9 पानभाजन पानभाजनम् नपुंसकलिङ्गः क्षीरादिपानस्य भाजनम् ॥ तत्पुरुषः समासः अकारान्तः