अमरकोशः


श्लोकः

उडुपं तु प्लव: कोल: स्रोतोऽम्बुसरणं स्वतः । आतरस्तरपण्यं स्याद् द्रोणी काष्ठाम्बुवाहिनी ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उडुप उडुपः पुंलिङ्गः, नपुंसकलिङ्गः उडुनो जलात् पाति । कः कृत् अकारान्तः
2 प्लव प्लवः पुंलिङ्गः प्लवः प्लक्षे प्लुतौ कपौ । अच् कृत् अकारान्तः
3 कोल कोलः पुंलिङ्गः णः कृत् अकारान्तः
4 स्रोतस् स्रोतः पुंलिङ्गः, नपुंसकलिङ्गः स्रवति । असुन् उणादिः सकारान्तः
5 आतर आतरः पुंलिङ्गः आतरन्त्यनेन । घः कृत् अकारान्तः
6 तरपण्य तरपण्यम् नपुंसकलिङ्गः तरस्य पण्यम् । अप् कृत् अकारान्तः
7 द्रोणी द्रोणी स्त्रीलिङ्गः द्रवति । निः उणादिः ईकारान्तः
8 काष्ठाम्बुवाहिनी काष्ठाम्बुवाहिनी स्त्रीलिङ्गः पुनः पुनरम्बुवहति । णनिः कृत् ईकारान्तः