अमरकोशः


श्लोकः

शरीरस्था इमे रंहस्तरसी तु रयः स्यदः । जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ ६४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रंहस् रंहः नपुंसकलिङ्गः रमतेऽनेन । असुन् उणादिः सकारान्तः
2 तरस् तरः नपुंसकलिङ्गः तरन्त्यनेन । असुन् उणादिः सकारान्तः
3 रय रयः पुंलिङ्गः रिणात्यनेन । अच् कृत् अकारान्तः
4 स्यद स्यदः पुंलिङ्गः स्यन्दतेऽनेन । घञ् निपातनम्(६.४.२८) अकारान्तः
5 जव जवः पुंलिङ्गः जवनम् । अप् कृत् अकारान्तः
6 शीघ्र शीघ्रम् नपुंसकलिङ्गः शिङ्घति व्याप्नोति । रक् उणादिः अकारान्तः
7 त्वरित त्वरितम् नपुंसकलिङ्गः त्वरते स्म । क्त कृत् अकारान्तः
8 लघु लघुम् नपुंसकलिङ्गः लङ्घते । कु उणादिः उकारान्तः
9 क्षिप्र क्षिप्रम् नपुंसकलिङ्गः क्षिपति । रक् उणादिः अकारान्तः
10 अर अरम् नपुंसकलिङ्गः ऋच्छति, इयर्ति वा । अच् कृत् अकारान्तः
11 द्रुत द्रुतम् नपुंसकलिङ्गः द्रवति स्म । क्त कृत् अकारान्तः