अमरकोशः


श्लोकः

नकुलेष्टा भुजंगाक्षी छत्राकी सुवहा च सा । विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा ॥ ११५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नकुलेष्टा नकुलेष्टा स्त्रीलिङ्गः नकुलानामिष्टा ॥ तत्पुरुषः समासः आकारान्तः
2 भुजङ्गाक्षी भुजङ्गाक्षी स्त्रीलिङ्गः भुजंगा नक्षति । तत्पुरुषः समासः ईकारान्तः
3 छत्राकी छत्राकी स्त्रीलिङ्गः छत्रमकति । तत्पुरुषः समासः ईकारान्तः
4 सुवहा सुवहा स्त्रीलिङ्गः सुष्ठु वहति । तत्पुरुषः समासः आकारान्तः
5 विदारिगन्धा विदारिगन्धा स्त्रीलिङ्गः विदार्या गन्धः विदारिगन्धः । तत्पुरुषः समासः आकारान्तः
6 अंशुमती अंशुमती स्त्रीलिङ्गः अंशवः सन्त्यस्याः । मतुप् तद्धितः ईकारान्तः
7 सालपर्णी सालपर्णी स्त्रीलिङ्गः साल: पर्णमस्याः । बहुव्रीहिः समासः ईकारान्तः
8 स्थिरा स्थिरा स्त्रीलिङ्गः तिष्ठति । किरच् उणादिः आकारान्तः
9 ध्रुवा ध्रुवा स्त्रीलिङ्गः ध्रुवति । कृत् आकारान्तः