अमरकोशः


श्लोकः

अनड्वान् सौरभेयो गौरुक्ष्णां संहतिरौक्षकम् । गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके ॥ ६० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अनडुह् अनडुह् पुंलिङ्गः अनः शकटं वहति । क्विप् कृत् हकारान्तः
2 सौरभेय सौरभेयः पुंलिङ्गः सुरभ्या अपत्यम् । ढक् तद्धितः अकारान्तः
3 गो गो पुंलिङ्गः गच्छति । डो उणादिः ओकारान्तः
4 औक्षक औक्षकम् नपुंसकलिङ्गः उक्ष्णां समूहः । वुञ् तद्धितः अकारान्तः
5 गव्या गव्या स्त्रीलिङ्गः गवां संहतिः । तद्धितः आकारान्तः
6 गोत्रा गोत्रा स्त्रीलिङ्गः त्र तद्धितः आकारान्तः
7 वात्सक वात्सकम् नपुंसकलिङ्गः वत्सानां समूहः । वुञ् तद्धितः अकारान्तः
8 धैनुक धैनुकम् नपुंसकलिङ्गः धेनूनां समूहः । ठक् तद्धितः अकारान्तः