अमरकोशः


श्लोकः

यष्टा च यजमानश्च स सोमवति दीक्षितः । इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान् ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 यष्ट्रु यष्ट्रुः पुंलिङ्गः यजते । तृच् कृत् उकारान्तः
2 यजमान यजमानः पुंलिङ्गः शानन् कृत् अकारान्तः
3 दीक्षित दीक्षितः पुंलिङ्गः दीक्षते स्म । क्त कृत् अकारान्तः
4 इज्याशील इज्याशीलः पुंलिङ्गः इज्या शीलमस्य । बहुव्रीहिः समासः अकारान्तः
5 यायजूक यायजूकः पुंलिङ्गः पुनः पुनः भृशं वा जयते । सनादिः अकारान्तः
6 यज्वन् यज्वा पुंलिङ्गः यजते स्म । वनिप् कृत् नकारान्तः