अमरकोशः


श्लोकः

खुरणा: स्यात्खुरणस: प्रज्ञुः प्रगतजानुकः । ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात् संज्ञुः संहतजानुकः ॥ ४७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 खुरणस् खुरणाः पुंलिङ्गः खुर इव नासिकास्य । बहुव्रीहिः समासः सकारान्तः
2 खुरणस खुरणसः पुंलिङ्गः खुर इव नासिकास्य । बहुव्रीहिः समासः अकारान्तः
3 प्रज्ञु प्रज्ञुः पुंलिङ्गः प्रगते विरले जानुनी यस्य । बहुव्रीहिः समासः उकारान्तः
4 प्रगतजानुक प्रगतजानुकः पुंलिङ्गः प्रगते विरले जानुनी यस्य । बहुव्रीहिः समासः अकारान्तः
5 ऊर्ध्वज्ञु ऊर्ध्वज्ञुः पुंलिङ्गः ऊर्ध्वे जानुनी यस्य । बहुव्रीहिः समासः उकारान्तः
6 ऊर्ध्वजानु ऊर्ध्वजानुः पुंलिङ्गः ऊर्ध्वे जानुनी यस्य । बहुव्रीहिः समासः उकारान्तः
7 संज्ञु संज्ञुः पुंलिङ्गः संयते जानुनी यस्य । बहुव्रीहिः समासः उकारान्तः
8 संहतजानुक संहतजानुकः पुंलिङ्गः संयते जानुनी यस्य । बहुव्रीहिः समासः अकारान्तः