अमरकोशः


श्लोकः

अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि । व्यध्वो दुरध्वो विपथ: कदध्वा कापथः समाः ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अतिपथिन् अतिपन्थाः पुंलिङ्गः स्वती पूजायाम् । तत्पुरुषः समासः नकारान्तः
2 सुपथिन् सुपन्थाः पुंलिङ्गः संश्चासौ पन्थाश्च । तत्पुरुषः समासः नकारान्तः
3 सत्पथ सत्पथः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
4 व्यध्व व्यध्वः पुंलिङ्गः विरुद्धोऽध्वा । तत्पुरुषः समासः अकारान्तः
5 दुरध्व दुरध्वः पुंलिङ्गः दुष्टोऽध्वा ॥ तत्पुरुषः समासः अकारान्तः
6 विपथ विपथः पुंलिङ्गः विरुद्धः पन्था: तत्पुरुषः समासः अकारान्तः
7 कदध्वन् कदध्वा पुंलिङ्गः कुत्सितोऽध्वा । तत्पुरुषः समासः नकारान्तः
8 कापथ कापथः पुंलिङ्गः कुत्सितः पथः तत्पुरुषः समासः अकारान्तः