अमरकोशः


श्लोकः

चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः । जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ ६५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चाम्पेय चाम्पेयः पुंलिङ्गः चम्पाया अपत्यम् । अकारान्तः
2 केसर केसरः पुंलिङ्गः केसराः सन्त्यस्य अकारान्तः
3 नागकेसर नागकेसरः पुंलिङ्गः नागाख्यः केसरः। अकारान्तः
4 काञ्चनाह्वय काञ्चनाह्वयः पुंलिङ्गः काञ्चनस्याह्वय आह्वा यस्य ॥ बहुव्रीहिः समासः अकारान्तः
5 जया जया स्त्रीलिङ्गः जयति । अच् कृत् आकारान्तः
6 जयन्ती जयन्ती स्त्रीलिङ्गः झच् उणादिः ईकारान्तः
7 तर्कारि तर्कारी स्त्रीलिङ्गः तर्कमृच्छति । तत्पुरुषः समासः इकारान्तः
8 नादेयी नादेयी स्त्रीलिङ्गः नद्यां भवा । ढक् तद्धितः ईकारान्तः
9 वैजयन्तिका वैजयन्तिका स्त्रीलिङ्गः विजयन्तस्येयम् । अण् तद्धितः आकारान्तः