अमरकोशः


श्लोकः

षडभिज्ञो दशबलोऽद्वयवादी विनायकः । मुनीन्द्र: श्रीघन: शास्ता मुनि: शाक्यमुनिस्तु यः ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 षडभिज्ञ षडभिज्ञः पुंलिङ्गः दिव्यं चक्षुः श्रोत्रम्, परचित्तज्ञानम्, पूर्वनिवासानुस्मृतिः, आत्मज्ञानम्, वियद्गमनम्, कायव्यूहसिद्धिश्चेति षट् अभितो ज्ञायमानानि यस्य सः । बहुव्रीहिः समासः अकारान्तः
2 दशबल दशबलः पुंलिङ्गः दश बलान्यस्य । बहुव्रीहिः समासः अकारान्तः
3 अद्वयवादिन् अद्वयवादी पुंलिङ्गः अद्वयमद्वैतं वदत्यवश्यम् । समासः नकारान्तः
4 विनायक विनायकः पुंलिङ्गः विनयत्यनुशास्ति । ण्वुल् कृत् अकारान्तः
5 मुनीन्द्र मुनीन्द्रः पुंलिङ्गः मुनिषु इन्द्रः । तत्पुरुषः समासः अकारान्तः
6 श्रीघन श्रीघनः पुंलिङ्गः श्रिया घन: पूर्णः । तत्पुरुषः समासः अकारान्तः
7 शास्तृ शास्ता पुंलिङ्गः शास्तीति शास्ता । तृन् उणादिः ऋकारान्तः
8 मुनि मुनिः पुंलिङ्गः मन्यते मुनिः । इन् उणादिः इकारान्तः
9 शाक्यमुनि शाक्यमुनिः पुंलिङ्गः शकोऽभिजनोऽस्य । बहुव्रीहिः समासः इकारान्तः