अमरकोशः


श्लोकः

आशीविषो विषधरश्चक्री व्यालः सरीसृपः । कुण्डली गूढपाच्चक्षुःश्रवाः काकोदर: फणी ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आशीविष आशीविषः पुंलिङ्गः आशीस्तालुगता दंष्ट्रा तया विद्धो न जीवति । तत्र विषमस्य । अकारान्तः
2 विषधर विषधरः पुंलिङ्गः विषस्य धरः । तत्पुरुषः समासः अकारान्तः
3 चक्रिन् चक्री पुंलिङ्गः चक्रमस्यास्ति । इनिः तद्धितः नकारान्तः
4 व्याल व्यालः पुंलिङ्गः व्याडति । अच् कृत् अकारान्तः
5 सरीसृप सरीसृपः पुंलिङ्गः कुटिलं सर्पति । अच् कृत् अकारान्तः
6 कुण्डलिन् कुण्डली पुंलिङ्गः कुण्डलं कुण्डलाकारतास्यास्ति । इनिः तद्धितः नकारान्तः
7 गूढपाद् गूढपाद् पुंलिङ्गः गूढाः पादा अस्य । क्विप् दकारान्तः
8 चक्षुःश्रवस् चक्षुःश्रवाः पुंलिङ्गः चक्षुः श्रवः कर्णोऽस्य । समासः सकारान्तः
9 काकोदर काकोदरः पुंलिङ्गः काकस्येवोदरमस्य । कर्मधारय समासः अकारान्तः
10 फणिन् फणी पुंलिङ्गः फणास्यास्ति । इनिः तद्धितः नकारान्तः