अमरकोशः


श्लोकः

श्रुति: स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः । स्त्रियामृक् सामयजुषी इति वेदास्त्रयस्त्रयी ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 श्रुति श्रुतिः स्त्रीलिङ्गः श्रूयते। क्तिन् कृत् इकारान्तः
2 वेद वेदः पुंलिङ्गः विदन्त्यनेन धर्मम् । घञ् कृत् अकारान्तः
3 आम्नाय आम्नायः पुंलिङ्गः आम्नायते अभ्यस्यते । घञ् कृत् अकारान्तः
4 धर्म धर्मः पुंलिङ्गः धरति लोकान्। मन् उणादिः अकारान्तः
5 ऋच् ऋक् स्त्रीलिङ्गः ऋच्यन्ते स्तूयन्ते देवा अनया । क्विप् कृत् चकारान्तः
6 सामन् साम नपुंसकलिङ्गः स्यति पापम् । मनिन् उणादिः नकारान्तः
7 यजुष् यजुः नपुंसकलिङ्गः इज्यतेऽनेन । उस् उणादिः षकारान्तः
8 त्रयी त्रयी स्त्रीलिङ्गः त्रयोऽवयवा यस्याः सा संहतिः । तयप् ईकारान्तः