अमरकोशः


श्लोकः

अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् । आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ॥ ७१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अराल अरालः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अरमालाति कृत् अकारान्तः
2 वृजिन वृजिनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वृज्यते इनन् उणादिः अकारान्तः
3 जिह्म जिह्मः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जहाति, हीयते वा मन् उणादिः अकारान्तः
4 ऊर्मिमत् ऊर्मिमत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ऊर्मिरस्यास्ति मतुप् तद्धितः तकारान्तः
5 कुञ्चित कुञ्चितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कुञ्चति स्म क्त कृत् अकारान्तः
6 नत नतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नमति स्म क्त कृत् अकारान्तः
7 आविध्द आविध्दः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आविध्यते स्म क्त कृत् अकारान्तः
8 कुटिल कुटिलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कुटिं कौटिल्यं लाति कृत् अकारान्तः
9 भुग्न भुग्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भुजति स्म क्त कृत् अकारान्तः
10 वेल्लित वेल्लितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वेल्लति स्म क्त कृत् अकारान्तः
11 वक्र वक्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वञ्चति रक् उणादिः अकारान्तः