अमरकोशः


श्लोकः

बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः । परान्नः परपिण्डादः भक्षको घस्मरोऽद्मरः ॥ २० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बुभुक्षित बुभुक्षितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बुभुक्षा जातास्य । इतच् तद्धितः अकारान्तः
2 क्षुधित क्षुधितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्षुध्यति स्म । क्त कृत् अकारान्तः
3 जिघत्सु जिघत्सुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अत्तुमिच्छुः । उः तद्धितः उकारान्तः
4 अशनायित अशनायितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अशनाया जातास्य । निपातनात् अकारान्तः
5 परान्न परान्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परस्यान्नम् । तत्पुरुषः समासः अकारान्तः
6 परपिण्डाद परपिण्डादः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परस्य पिण्डम् । तत्पुरुषः समासः अकारान्तः
7 भक्षक भक्षकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भक्षयति । ण्वुल् कृत् अकारान्तः
8 घस्मर घस्मरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः घसति । क्मरच् कृत् अकारान्तः
9 अद्मर अद्मरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अत्ति ॥ क्मरच् कृत् अकारान्तः