अमरकोशः


श्लोकः

अपन्थास्त्वपथं तुल्ये शृङ्गाटकचतुष्पथे । प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्म दुर्गमम् ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अपथिन् अपन्थाः पुंलिङ्गः पथोऽभावः । तत्पुरुषः समासः नकारान्तः
2 अपथ अपथम् नपुंसकलिङ्गः तत्पुरुषः समासः अकारान्तः
3 शृङ्गाटक शृङ्गाटकः नपुंसकलिङ्गः शृङ्गं प्राधान्यमटति । तत्पुरुषः समासः अकारान्तः
4 चतुष्पथ चतुष्पथम् नपुंसकलिङ्गः चतुर्णां पथां समाहारः । तत्पुरुषः समासः अकारान्तः
5 प्रान्तर प्रान्तरम् नपुंसकलिङ्गः प्रकृष्टमन्तरमत्र । तत्पुरुषः समासः अकारान्तः
6 कान्तार कान्तारम् पुंलिङ्गः, नपुंसकलिङ्गः कस्य जलस्य सुखस्य वान्तः । कान्तमृच्छति । तत्पुरुषः समासः अकारान्तः