अमरकोशः


श्लोकः

क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु । पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम् ॥ १०९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सारसन सारसनम् नपुंसकलिङ्गः सारमुत्कृष्टं सनमस्य । बहुव्रीहिः समासः अकारान्तः
2 शृङ्खल शृङ्खलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शृङ्गैः खलति । अच् कृत् अकारान्तः
3 पादाङ्गद पादाङ्गदम् नपुंसकलिङ्गः पादस्याङ्गदमिव । तत्पुरुषः समासः अकारान्तः
4 तुलाकोटि तुलाकोटिः पुंलिङ्गः तुलां तुलया वा कोटयति । उणादिः इकारान्तः
5 मञ्जीर मञ्जीरः पुंलिङ्गः, नपुंसकलिङ्गः ‘मजि ध्वनौ’ सौत्रः । ईरन् बाहुलकात् अकारान्तः
6 नूपुर नूपुरः पुंलिङ्गः, नपुंसकलिङ्गः नुवनम्’ नूयते, वा । कृत् अकारान्तः